Mahabharata

Ashvamedhika Parva, Adhyaya 64

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 1

क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः

कृत्वोपहारं नृपते ततः स्वार्थे यतामहे

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 2

श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः

गिरीशस्य यथान्यायमुपहारमुपाहरत्

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 3

आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन ह

मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 4

स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप

मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 5

सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि

सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः

किंकराणां ततः पश्चाच्चकार बलिमुत्तमम्

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 6

यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह

तथान्येषां च यक्षाणां भूताधिपतयश्च ये

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 7

कृसरेण समांसेन निवापैस्तिलसंयुतैः

शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 8

कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः

ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 9

पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च

सुमनोभिर्विचित्राभिरपूपैः कृसरेण च

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 10

शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः

अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान्

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 11

तेषां पुण्याहघोषेण तेजसा समवस्थितः

प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 12

ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः

भृङ्गाराणि कटाहानि कलशान्वर्धमानकान्

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 13

बहूनि च विचित्राणि भाजनानि सहस्रशः

उद्धारयामास तदा धर्मराजो युधिष्ठिरः

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 14

तेषां लक्षणमप्यासीन्महान्करपुटस्तथा

त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 15

वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते

षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 16

वारणाश्च महाराज सहस्रशतसंमिताः

शकटानि रथाश्चैव तावदेव करेणवः

खराणां पुरुषाणां च परिसंख्या न विद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 17

एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः

षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 18

एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः

महादेवं प्रति ययौ पुरं नागाह्वयं प्रति

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 19

द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्

गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः

Mahabharata

Ashvamedhika Parva, Adhyaya 64, Verse 20

सा पुराभिमुखी राजञ्जगाम महती चमूः

कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्