Ashvamedhika Parva, Adhyaya 63, Verse 1
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः
रथघोषेण महता पूरयन्तो वसुंधराम्
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः
रथघोषेण महता पूरयन्तो वसुंधराम्
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः
स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट्
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः
तथैव सैनिका राजन्राजानमनुयान्ति ये
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत
स सरांसि नदीश्चैव वनान्युपवनानि च
अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम्
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः
शिवे देशे समे चैव तदा भरतसत्तम
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान्
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्
प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन्
कृत्वा च मध्ये राजानममात्यांश्च यथाविधि
षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत्
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे
यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा
न नः कालात्ययो वै स्यादिहैव परिलम्बताम्
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम्
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः
अद्यैव नक्षत्रमहश्च पुण्यं; यतामहे श्रेष्ठतमं क्रियासु
अम्भोभिरद्येह वसाम राज;न्नुपोष्यतां चापि भवद्भिरद्य
श्रुत्वा तु तेषां द्विजसत्तमानां; कृतोपवासा रजनीं नरेन्द्राः
ऊषुः प्रतीताः कुशसंस्तरेषु; यथाध्वरेषु ज्वलिता हव्यवाहाः
ततो निशा सा व्यगमन्महात्मनां; संशृण्वतां विप्रसमीरिता गिरः
ततः प्रभाते विमले द्विजर्षभा; वचोऽब्रुवन्धर्मसुतं नराधिपम्