Mahabharata

Ashvamedhika Parva, Adhyaya 62

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 1

श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना

अश्वमेधं प्रति तदा किं नृपः प्रचकार ह

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 2

रत्नं च यन्मरुत्तेन निहितं पृथिवीतले

तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 3

श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः

भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत्

अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 4

श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना

कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 5

तपोवृद्धेन महता सुहृदां भूतिमिच्छता

गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 6

भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता

संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 7

आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्

अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 8

इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः

तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 9

यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि

तदानयामहे सर्वे कथं वा भीम मन्यसे

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 10

इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह

भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 11

रोचते मे महाबाहो यदिदं भाषितं त्वया

व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 12

यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो

कृतमेव महाराज भवेदिति मतिर्मम

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 13

ते वयं प्रणिपातेन गिरीशस्य महात्मनः

तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 14

तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान्

प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 15

रक्षन्ते ये च तद्द्रव्यं किंकरा रौद्रदर्शनाः

ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 16

श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत

प्रीतो धर्मात्मजो राजा बभूवातीव भारत

अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 17

कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्

सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 18

ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च

अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 19

मोदकैः पायसेनाथ मांसापूपैस्तथैव च

आशास्य च महात्मानं प्रययुर्मुदिता भृशम्

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 20

तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ

प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 21

ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च

ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 22

समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्

धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम्

Mahabharata

Ashvamedhika Parva, Adhyaya 62, Verse 23

मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्

संपूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः