Ashvamedhika Parva, Adhyaya 61, Verse 1
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्
तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम्
षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम्
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम्
सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा
दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन्
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा
अतीव दुःखसंतप्ता न शमं चोपलेभिरे
तथैव पाण्डवा वीरा नगरे नागसाह्वये
नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः
सुबहूनि च राजेन्द्र दिवसानि विराटजा
नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत्
कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा
आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम्
उत्तरां च महातेजाः शोकः संत्यज्यतामयम्
जनिष्यति महातेजाः पुत्रस्तव यशस्विनि
प्रभावाद्वासुदेवस्य मम व्याहरणादपि
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्
धनंजयं च संप्रेक्ष्य धर्मराजस्य पश्यतः
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत
पौत्रस्तव महाबाहो जनिष्यति महामनाः
पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा
विबुधानां गतो लोकानक्षयानात्मनिर्जितान्
न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा
एवं पितामहेनोक्तो धर्मात्मा स धनंजयः
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा
पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते
अवर्धत यथाकालं शुक्लपक्षे यथा शशी
ततः संचोदयामास व्यासो धर्मात्मजं नृपम्
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत्
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः
वित्तोपनयने तात चकार गमने मतिम्