Ashvamedhika Parva, Adhyaya 59, Verse 1
श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम्
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम्
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज
तस्मात्प्रब्रूहि संग्रामं याथातथ्येन मेऽनघ
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम्
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः
नानावेषाकृतिमतां नानादेशनिवासिनाम्
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके
शशंस कुरुवीराणां संग्रामे निधनं यथा
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम्
बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि
प्राधान्यतस्तु गदतः समासेनैव मे शृणु
कर्माणि पृथिवीशानां यथावदमरद्युते
भीष्मः सेनापतिरभूदेकादशचमूपतिः
कौरव्यः कौरवेयाणां देवानामिव वासवः
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः
बभूव रक्षितो धीमान्धीमता सव्यसाचिना
तेषां तदभवद्युद्धं दशाहानि महात्मनाम्
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम्
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना
अकरोत्स ततः कालं शरतल्पगतो मुनिः
अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्
गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत्
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे
नानादिगागता वीराः प्रायशो निधनं गताः
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम्
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः
ततः सेनापतिरभूत्कर्णो दौर्योधने बले
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः
ततः पार्थं समासाद्य पतंग इव पावकम्
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम्
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः
तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम्
हते शल्ये तु शकुनिं सहदेवो महामनाः
आहर्तारं कलेस्तस्य जघानामितविक्रमः
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान्
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम्
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम्
उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः
ततः स निहतो राजा धार्तराष्ट्रो महामृधे
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्