Mahabharata

Ashvamedhika Parva, Adhyaya 58

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 1

उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम

अत ऊर्ध्वं महाबाहुः किं चकार महायशाः

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 2

दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह

द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 3

सरांसि च नदीश्चैव वनानि विविधानि च

अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम्

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 4

वर्तमाने महाराज महे रैवतकस्य च

उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 5

अलंकृतस्तु स गिरिर्नानारूपविचित्रितैः

बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 6

काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च

वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 7

दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः

गुहानिर्झरदेशेषु दिवाभूतो बभूव ह

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 8

पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः

पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्

अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 9

मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत

गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 10

प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला

तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 11

विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्

वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 12

सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह

दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्

बभौ परमकल्याणो महस्तस्य महागिरेः

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 13

पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः

विहारो वृष्णिवीराणां महे रैवतकस्य ह

स नगो वेश्मसंकीर्णो देवलोक इवाबभौ

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 14

तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ

शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 15

ततः संपूज्यमानः स विवेश भवनं शुभम्

गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 16

विवेश च स हृष्टात्मा चिरकालप्रवासकः

कृत्वा नसुकरं कर्म दानवेष्विव वासवः

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 17

उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा

अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम्

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 18

स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा

अभ्यवादयत प्रीतः पितरं मातरं तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 19

ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः

उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः

Mahabharata

Ashvamedhika Parva, Adhyaya 58, Verse 20

स विश्रान्तो महातेजाः कृतपादावसेचनः

कथयामास तं कृष्णः पृष्टः पित्रा महाहवम्