Ashvamedhika Parva, Adhyaya 57, Verse 1
स मित्रसहमासाद्य त्वभिज्ञानमयाचत
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
स मित्रसहमासाद्य त्वभिज्ञानमयाचत
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्
गतिमन्यां न पश्यामि मदयन्तीसहायवान्
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम्
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्
प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा
प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः
स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव
स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः
भवत्सकाशमागन्तुं क्षमं मम न वेति वा
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम्
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम्
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान्
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति
यथा तयो रक्षणं च मदयन्त्याभिभाषितम्
तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत्
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्
बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः
तस्य वेगमसह्यं तमसहन्ती वसुंधरा
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा
ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्
रथेन हरियुक्तेन तं देशमुपजग्मिवान्
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम्
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः
उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै
इतो हि नागलोको वै योजनानि सहस्रशः
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम