Ashvamedhika Parva, Adhyaya 56, Verse 1
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्
भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः
षष्ठे काले ममाहारो विहितो द्विजसत्तम
न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै
एवमस्तु महाराज समयः क्रियतां तु मे
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम
त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः
दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम
उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्
सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किंचन
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा
यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः
यदि चास्मि प्रतिग्राह्यः सांप्रतं तद्ब्रवीहि मे
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ
सोऽहं त्वामनुसंप्राप्तो भिक्षितुं मणिकुण्डले
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम्
प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव
इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर
स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति
द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ
मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम्
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना
प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ
अभिज्ञानं तु किंचित्त्वं समानेतुमिहार्हसि
इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च
तैस्तैरुपायैः परिहर्तुकामा;श्छिद्रेषु नित्यं परितर्कयन्ति
निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः
यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ
देवराक्षसनागानामप्रमत्तेन धार्यते
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा
अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः
एवंविधे ममैते वै कुण्डले परमार्चिते
त्रिषु लोकेषु विख्याते तदभिज्ञानमानय