Ashvamedhika Parva, Adhyaya 55, Verse 1
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे
उत्तङ्को महता युक्तस्तपसा जनमेजय
गुरुभक्तः स तेजस्वी नान्यं कंचिदपूजयत्
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत
गौतमस्य तु शिष्याणां बहूनां जनमेजय
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत्
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत
तं क्रमेण जरा तात प्रतिपेदे महामुनिम्
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत्
स तु भाराभिभूतात्मा काष्ठभारमरिंदम
निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा
ततः काष्ठैः सह तदा पपात धरणीतले
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना
पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः
न हि तानश्रुपातान्वै शक्ता धारयितुं मही
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः
भवद्गतेन मनसा भवत्प्रियचिकीर्षया
भवद्भक्तिगतेनेह भवद्भावानुगेन च
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे
शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव
व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव
अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम्
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम
तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते
तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह
युवा षोडशवर्षो हि यदद्य भविता भवान्
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज
एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम्
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम्
प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत्
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः
परितुष्टास्मि ते पुत्र नित्यं भगवता सह
पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम्
उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः
आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव
सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत्
स तथेति प्रतिश्रुत्य जगाम जनमेजय
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा