Ashvamedhika Parva, Adhyaya 54, Verse 1
अभिजानामि जगतः कर्तारं त्वां जनार्दन
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
अभिजानामि जगतः कर्तारं त्वां जनार्दन
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत
विनिवृत्तश्च मे कोप इति विद्धि परंतप
यदि त्वनुग्रहं कंचित्त्वत्तोऽर्होऽहं जनार्दन
द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः
स ददर्श महात्मानं विश्वरूपं महाभुजम्
विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम्
विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम्
पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम्
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम्
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम्
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय
वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम्
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम्
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय
अवश्यमेतत्कर्तव्यममोघं दर्शनं मम
अवश्यकरणीयं वै यद्येतन्मन्यसे विभो
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्
ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ
ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया
तृषितः परिचक्राम मरौ सस्मार चाच्युतम्
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम्
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम्
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्
तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव
एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम्
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम्
पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत्
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना
श्वभिः सह महाराज तत्रैवान्तरधीयत
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः
आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत्
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो
इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः
उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत्
यादृशेनेह रूपेण योग्यं दातुं वृतेन वै
तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः
उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः
स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत्
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन
अमृतं देयमित्येव मयोक्तः स शचीपतिः
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्
यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते
भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै
प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो
प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव