Mahabharata

Ashvamedhika Parva, Adhyaya 53

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 1

ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम्

श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 2

तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान्

तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 3

मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्

स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 4

तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान्

गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 5

सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च

अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 6

ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने

दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 7

असच्च सदसच्चैव यद्विश्वं सदसतः परम्

ततः परं नास्ति चैव देवदेवात्सनातनात्

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 8

ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह

यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 9

होतारमपि हव्यं च विद्धि मां भृगुनन्दन

अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 10

उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे

प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः

स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 11

विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम

मानसं दयितं विप्र सर्वभूतदयात्मकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 12

तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः

बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 13

धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च

तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 14

अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः

भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 15

अधर्मे वर्तमानानां सर्वेषामहमप्युत

धर्मस्य सेतुं बध्नामि चलिते चलिते युगे

तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 16

यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन

तदाहं देववत्सर्वमाचरामि न संशयः

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 17

यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन

तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 18

नागयोनौ यदा चैव तदा वर्तामि नागवत्

यक्षराक्षसयोनीश्च यथावद्विचराम्यहम्

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 19

मानुष्ये वर्तमाने तु कृपणं याचिता मया

न च ते जातसंमोहा वचो गृह्णन्ति मे हितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 20

भयं च महदुद्दिश्य त्रासिताः कुरवो मया

क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 21

तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा

धर्मेण निहता युद्धे गताः स्वर्गं न संशयः

Mahabharata

Ashvamedhika Parva, Adhyaya 53, Verse 22

लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि