Mahabharata

Ashvamedhika Parva, Adhyaya 51

Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 1

ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम्

मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 2

तथैव चानुयात्राणि चोदयामास पाण्डवः

सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 3

इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते

आचख्युः सज्जमित्येव पार्थायामिततेजसे

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 4

ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ

विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 5

रथस्थं तु महातेजा वासुदेवं धनंजयः

पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 6

त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह

निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 7

नाथवन्तश्च भवता पाण्डवा मधुसूदन

भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 8

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव

यथाहं त्वा विजानामि यथा चाहं भवन्मनाः

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 9

त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन

रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 10

त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम्

त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 11

पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम्

हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 12

प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः

प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 13

रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम्

त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 14

सुदीर्घेणापि कालेन न ते शक्या गुणा मया

आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 15

विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा

कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 16

त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः

यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 17

एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन

इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 18

यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः

त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 19

भवता तत्कृतं कर्म येनावाप्तो जयो मया

दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 20

कर्णस्य च वधोपायो यथावत्संप्रदर्शितः

सैन्धवस्य च पापस्य भूरिश्रवस एव च

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 21

अहं च प्रीयमाणेन त्वया देवकिनन्दन

यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 22

राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्

चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 23

रुचितं हि ममैतत्ते द्वारकागमनं प्रभो

अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन

बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुंगवान्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 24

एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम्

तथा विविशतुश्चोभौ संप्रहृष्टनराकुलम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 25

तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्

ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 26

विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्

भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ

धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 27

गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम्

सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा

ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 28

ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ

निवेद्य नामधेये स्वे तस्य पादावगृह्णताम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 29

गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च

भीमस्य च महात्मानौ तथा पादावगृह्णताम्

Mahabharata

Ashvamedhika Parva, Adhyaya 51, Verse 30

क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम्

तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम्