Ashvamedhika Parva, Adhyaya 51, Verse 1
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम्
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम्
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः
तथैव चानुयात्राणि चोदयामास पाण्डवः
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम्
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते
आचख्युः सज्जमित्येव पार्थायामिततेजसे
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते
रथस्थं तु महातेजा वासुदेवं धनंजयः
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम्
नाथवन्तश्च भवता पाण्डवा मधुसूदन
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम्
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव
यथाहं त्वा विजानामि यथा चाहं भवन्मनाः
त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम्
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम्
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम्
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम्
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ
सुदीर्घेणापि कालेन न ते शक्या गुणा मया
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात्
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन
इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया
यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे
भवता तत्कृतं कर्म येनावाप्तो जयो मया
दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः
कर्णस्य च वधोपायो यथावत्संप्रदर्शितः
सैन्धवस्य च पापस्य भूरिश्रवस एव च
अहं च प्रीयमाणेन त्वया देवकिनन्दन
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो
अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन
बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुंगवान्
एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम्
तथा विविशतुश्चोभौ संप्रहृष्टनराकुलम्
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम्
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा
ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम्
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च
भीमस्य च महात्मानौ तथा पादावगृह्णताम्
क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम्
तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम्