Ashvamedhika Parva, Adhyaya 50, Verse 1
भूतानामथ पञ्चानां यथैषामीश्वरं मनः
नियमे च विसर्गे च भूतात्मा मन एव च
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
भूतानामथ पञ्चानां यथैषामीश्वरं मनः
नियमे च विसर्गे च भूतात्मा मन एव च
अधिष्ठाता मनो नित्यं भूतानां महतां तथा
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञः सर्व उच्यते
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः
इन्द्रियाणि मनो बुद्धिं क्षेत्रज्ञो युञ्जते सदा
महाभूतसमायुक्तं बुद्धिसंयमनं रथम्
तमारुह्य स भूतात्मा समन्तात्परिधावति
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम्
स धीरः सर्वलोकेषु न मोहमधिगच्छति
अव्यक्तादि विशेषान्तं त्रसस्थावरसंकुलम्
चन्द्रसूर्यप्रभालोकं ग्रहनक्षत्रमण्डितम्
नदीपर्वतजालैश्च सर्वतः परिभूषितम्
विविधाभिस्तथाद्भिश्च सततं समलंकृतम्
आजीवः सर्वभूतानां सर्वप्राणभृतां गतिः
एतद्ब्रह्मवनं नित्यं यस्मिंश्चरति क्षेत्रवित्
लोकेऽस्मिन्यानि भूतानि स्थावराणि चराणि च
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रयः
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्
एते विश्वकृतो विप्रा जायन्ते ह पुनः पुनः
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतानि गच्छति
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्प्रजापतिम्
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः
तथैव वेदानृषयस्तपसा प्रतिपेदिरे
तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः
ओषधान्यगदादीनी नानाविद्याश्च सर्वशः
तपसैव प्रसिध्यन्ति तपोमूलं हि साधनम्
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः
यानि चान्यानि भूतानि त्रसानि स्थावराणि च
तपःपरायणा नित्यं सिध्यन्ते तपसा सदा
तथैव तपसा देवा महाभागा दिवं गताः
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
अहंकारसमायुक्तास्ते सकाशे प्रजापतेः
ध्यानयोगेन शुद्धेन निर्ममा निरहंकृताः
प्राप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्
ध्यानयोगादुपागम्य प्रसन्नमतयः सदा
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवत्तया
ध्यानयोगादुपागम्य निर्ममा निरहंकृताः
अव्यक्तं प्रविशन्तीह महान्तं लोकमुत्तमम्
अव्यक्तादेव संभूतः समयज्ञो गतः पुनः
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम्
विमुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित्
चित्तं चित्तादुपागम्य मुनिरासीत संयतः
यच्चित्तस्तन्मना भूत्वा गुह्यमेतत्सनातनम्
अव्यक्तादि विशेषान्तमविद्यालक्षणं स्मृतम्
निबोधत यथा हीदं गुणैर्लक्षणमित्युत
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्
कर्म केचित्प्रशंसन्ति मन्दबुद्धितरा नराः
ये तु बुद्धा महात्मानो न प्रशंसन्ति कर्म ते