Mahabharata

Ashvamedhika Parva, Adhyaya 48

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 1

केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत्

केचित्पुरुषमव्यक्तं केचित्परमनामयम्

मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 2

उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्

आत्मानमुपसंगम्य सोऽमृतत्वाय कल्पते

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 3

निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि

गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 4

प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः

दशद्वादशभिर्वापि चतुर्विंशात्परं ततः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 5

एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति

अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 6

सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः

अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम्

न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 7

क्षमा धृतिरहिंसा च समता सत्यमार्जवम्

ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 8

एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः

सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 9

आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः

क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 10

पृथग्भूतस्ततो नित्यमित्येतदविचारितम्

पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 11

तथैवैकत्वनानात्वमिष्यते विदुषां नयः

मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 12

मत्स्यो यथान्यः स्यादप्सु संप्रयोगस्तथानयोः

संबन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 13

इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम्

पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 14

किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम्

व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 15

ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे

केचित्संशयितं सर्वं निःसंशयमथापरे

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 16

अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे

एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे

एकमेके पृथक्चान्ये बहुत्वमिति चापरे

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 17

मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः

जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 18

अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे

आहारं केचिदिच्छन्ति केचिच्चानशने रताः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 19

कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे

देशकालावुभौ केचिन्नैतदस्तीति चापरे

केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान्

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 20

धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे

उपास्यसाधनं त्वेके नैतदस्तीति चापरे

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 21

अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः

पुण्येन यशसेत्येके नैतदस्तीति चापरे

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 22

सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः

दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 23

यज्ञमित्यपरे धीराः प्रदानमिति चापरे

सर्वमेके प्रशंसन्ति न सर्वमिति चापरे

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 24

तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः

ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 25

एवं व्युत्थापिते धर्मे बहुधा विप्रधावति

निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 26

इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः

यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 27

तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम्

एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 28

अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति

सत्त्वक्षेत्रज्ञयोश्चैव संबन्धः केन हेतुना

Mahabharata

Ashvamedhika Parva, Adhyaya 48, Verse 29

एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः

तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्