Ashvamedhika Parva, Adhyaya 47, Verse 1
संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
संन्यासं तप इत्याहुर्वृद्धा निश्चितदर्शिनः
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः
अविदूरात्परं ब्रह्म वेदविद्याव्यपाश्रयम्
निर्द्वंद्वं निर्गुणं नित्यमचिन्त्यं गुह्यमुत्तमम्
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्पदम्
निर्णिक्ततमसः पूता व्युत्क्रान्तरजसोऽमलाः
तपसा क्षेममध्वानं गच्छन्ति परमैषिणः
संन्यासनिरता नित्यं ये ब्रह्मविदुषो जनाः
तपः प्रदीप इत्याहुराचारो धर्मसाधकः
ज्ञानं त्वेव परं विद्म संन्यासस्तप उत्तमम्
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात्
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते
यो विद्वान्सहवासं च विवासं चैव पश्यति
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते
यो न कामयते किंचिन्न किंचिदवमन्यते
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित्
निर्ममो निरहंकारो मुच्यते नात्र संशयः
निर्द्वंद्वो निर्नमस्कारो निःस्वधाकार एव च
निर्गुणं नित्यमद्वंद्वं प्रशमेनैव गच्छति
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्
महाहंकारविटप इन्द्रियान्तरकोटरः
महाभूतविशाखश्च विशेषप्रतिशाखवान्
सदापर्णः सदापुष्पः शुभाशुभफलोदयः
आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः
एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना
हित्वा चामरतां प्राप्य जह्याद्वै मृत्युजन्मनी
निर्ममो निरहंकारो मुच्यते नात्र संशयः
द्वावेतौ पक्षिणौ नित्यौ सखायौ चाप्यचेतनौ
एताभ्यां तु परो यस्य चेतनावानिति स्मृतः
अचेतनः सत्त्वसंघातयुक्तः; सत्त्वात्परं चेतयतेऽन्तरात्मा
स क्षेत्रज्ञः सत्त्वसंघातबुद्धि;र्गुणातिगो मुच्यते मृत्युपाशात्