Ashvamedhika Parva, Adhyaya 46, Verse 1
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान्
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान्
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्
हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान्
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः
धारयीत सदा दण्डं बैल्वं पालाशमेव वा
क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा
सर्वं काषायरक्तं स्याद्वासो वापि द्विजस्य ह
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते
एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः
न संसरति जातीषु परमं स्थानमाश्रितः
संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्
ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत्
चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत्
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम्
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्
प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात्
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः
आमूलफलभिक्षाभिरर्चेदतिथिमागतम्
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः
दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन्
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत्
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः
अयाचितमसंकॢप्तमुपपन्नं यदृच्छया
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्
धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत्
ग्रासादाच्छादनाच्चान्यन्न गृह्णीयात्कथंचन
यावदाहारयेत्तावत्प्रतिगृह्णीत नान्यथा
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः
नाददीत परस्वानि न गृह्णीयादयाचितम्
न किंचिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः
मृदमापस्तथाश्मानं पत्रपुष्पफलानि च
असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान्
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत्
न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः
श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत्
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम्
कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने
वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित्
लाभे न च प्रहृष्येत नालाभे विमना भवेत्
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः
शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्
न चान्यमनुभिक्षेत भिक्षमाणः कथंचन