Ashvamedhika Parva, Adhyaya 45, Verse 1
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्
जराशोकसमाविष्टं व्याधिव्यसनसंचरम्
देशकालविचारीदं श्रमव्यायामनिस्वनम्
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्
सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम्
छायातपविलेखं च निमेषोन्मेषविह्वलम्
घोरमोहजनाकीर्णं वर्तमानमचेतनम्
मासार्धमासगणितं विषमं लोकसंचरम्
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्
सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम्
स्वरविग्रहनाभीकं शोकसंघातवर्तनम्
क्रियाकारणसंयुक्तं रागविस्तारमायतम्
लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम्
भयमोहपरीवारं भूतसंमोहकारकम्
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम्
महदादिविशेषान्तमसक्तप्रभवाव्ययम्
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम्
विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत्
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति
विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः
यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः
जातौ गुणविशिष्टायां समावर्तेत वेदवित्
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह
देवतातिथिशिष्टाशी निरतो वेदकर्मसु
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि
न पाणिपादचपलो न नेत्रचपलो मुनिः
न च वागङ्गचपल इति शिष्टस्य गोचरः
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत्
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत्
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः