Mahabharata

Ashvamedhika Parva, Adhyaya 44

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 1

यदादिमध्यपर्यन्तं ग्रहणोपायमेव च

नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 2

अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः

श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 3

भूमिरादिस्तु गन्धानां रसानामाप एव च

रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते

शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 4

अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्

आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 5

सावित्री सर्वविद्यानां देवतानां प्रजापतिः

ओंकारः सर्ववेदानां वचसां प्राण एव च

यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 6

गायत्री छन्दसामादिः पशूनामज उच्यते

गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 7

श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्

परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 8

कृतमादिर्युगानां च सर्वेषां नात्र संशयः

हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 9

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते

द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 10

स्थावराणां च भूतानां सर्वेषामविशेषतः

ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 11

अहं प्रजापतीनां च सर्वेषां नात्र संशयः

मम विष्णुरचिन्त्यात्मा स्वयंभूरिति स स्मृतः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 12

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः

दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 13

तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता

तथा सरोदपानानां सर्वेषां सागरोऽग्रजः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 14

देवदानवभूतानां पिशाचोरगरक्षसाम्

नरकिंनरयक्षाणां सर्वेषामीश्वरः प्रभुः

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 15

आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्

भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 16

आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशयः

लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 17

अहान्यस्तमयान्तानि उदयान्ता च शर्वरी

सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम्

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 18

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 19

सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्

अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम्

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 20

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये

सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 44, Verse 21

तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः

निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः