Ashvamedhika Parva, Adhyaya 42, Verse 1
अहंकारात्प्रसूतानि महाभूतानि पञ्च वै
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
अहंकारात्प्रसूतानि महाभूतानि पञ्च वै
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
तेषु भूतानि मुह्यन्ते महाभूतेषु पञ्चसु
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम्
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
क्रियाकारणयुक्ताः स्युरनित्या मोहसंज्ञिताः
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिंचनाः
मांसशोणितसंघाता अन्योन्यस्योपजीविनः
बहिरात्मान इत्येते दीनाः कृपणवृत्तयः
प्राणापानावुदानश्च समानो व्यान एव च
अन्तरात्मेति चाप्येते नियताः पञ्च वायवः
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत्
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक्च संयता
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा
स तद्ब्रह्म शुभं याति यस्माद्भूयो न विद्यते
एकादश च यान्याहुरिन्द्रियाणि विशेषतः
अहंकारप्रसूतानि तानि वक्ष्याम्यहं द्विजाः
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
पादौ पायुरुपस्थं च हस्तौ वाग्दशमी भवेत्
इन्द्रियग्राम इत्येष मन एकादशं भवेत्
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः
अविशेषाणि चान्यानि कर्मयुक्तानि तानि तु
उभयत्र मनो ज्ञेयं बुद्धिर्द्वादशमी भवेत्
इत्युक्तानीन्द्रियाणीमान्येकादश मया क्रमात्
मन्यन्ते कृतमित्येव विदित्वैतानि पण्डिताः
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते
स्थलमापस्तथाकाशं जन्म चापि चतुर्विधम्
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते
अचराण्यपि भूतानि खेचराणि तथैव च
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान्
संस्वेदाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः
जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्
उद्भिज्जानीति तान्याहुर्भूतानि द्विजसत्तमाः
द्विपादबहुपादानि तिर्यग्गतिमतीनि च
जरायुजानि भूतानि वित्त तान्यपि सत्तमाः
द्विविधापीह विज्ञेया ब्रह्मयोनिः सनातना
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः
द्विविधं कर्म विज्ञेयमिज्या दानं च यन्मखे
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम्
एतद्यो वेद विधिवत्स मुक्तः स्याद्द्विजर्षभाः
विमुक्तः सर्वपापेभ्य इति चैव निबोधत
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुतम्
स्प्रष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम्
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्