Mahabharata

Ashvamedhika Parva, Adhyaya 41

Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 41, Verse 1

य उत्पन्नो महान्पूर्वमहंकारः स उच्यते

अहमित्येव संभूतो द्वितीयः सर्ग उच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 41, Verse 2

अहंकारश्च भूतादिर्वैकारिक इति स्मृतः

तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 41, Verse 3

देवानां प्रभवो देवो मनसश्च त्रिलोककृत्

अहमित्येव तत्सर्वमभिमन्ता स उच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 41, Verse 4

अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम्

स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः

Mahabharata

Ashvamedhika Parva, Adhyaya 41, Verse 5

अहंकारेणाहरतो गुणानिमा;न्भूतादिरेवं सृजते स भूतकृत्

वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जयते जगत्तथा