Mahabharata

Ashvamedhika Parva, Adhyaya 40

Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 1

अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः

आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 2

महानात्मा मतिर्विष्णुर्विश्वः शंभुश्च वीर्यवान्

बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 3

पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते

तं जानन्ब्राह्मणो विद्वान्न प्रमोहं निगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 4

सर्वतःपाणिपादश्च सर्वतोक्षिशिरोमुखः

सर्वतःश्रुतिमाँल्लोके सर्वं व्याप्य स तिष्ठति

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 5

महाप्रभार्चिः पुरुषः सर्वस्य हृदि निश्रितः

अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 6

तत्र बुद्धिमतां लोकाः संन्यासनिरताश्च ये

ध्यानिनो नित्ययोगाश्च सत्यसंधा जितेन्द्रियाः

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 7

ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः

प्रसन्नमनसो धीरा निर्ममा निरहंकृताः

विमुक्ताः सर्व एवैते महत्त्वमुपयान्ति वै

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 8

आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्

स धीरः सर्वलोकेषु न मोहमधिगच्छति

विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः

Mahabharata

Ashvamedhika Parva, Adhyaya 40, Verse 9

एवं हि यो वेद गुहाशयं प्रभुं; नरः पुराणं पुरुषं विश्वरूपम्

हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति