Mahabharata

Ashvamedhika Parva, Adhyaya 39

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 1

नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः

अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 2

अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः

अन्योन्यापाश्रयाः सर्वे तथान्योन्यानुवर्तिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 3

यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशयः

यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 4

संहत्य कुर्वते यात्रां सहिताः संघचारिणः

संघातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 5

उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम्

वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 6

व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्

अल्पं तत्र रजो ज्ञेयं सत्त्वं चाल्पतरं ततः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 7

उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत्

अल्पं तत्र तमो ज्ञेयं सत्त्वं चाल्पतरं ततः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 8

उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत्

अल्पं तत्र रजो ज्ञेयं तमश्चाल्पतरं ततः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 9

सत्त्वं वैकारिकं योनिरिन्द्रियाणां प्रकाशिका

न हि सत्त्वात्परो भावः कश्चिदन्यो विधीयते

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 10

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः

जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 11

तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम्

इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 12

दूरादपि हि दृश्यन्ते सहिताः संघचारिणः

तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 13

दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भयं भवेत्

अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 14

आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः

परितापोऽध्वगानां च राजसो गुण उच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 15

प्राकाश्यं सत्त्वमादित्ये संतापो राजसो गुणः

उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 16

एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रयः

पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 17

स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः

राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 18

अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते

मासार्धमासवर्षाणि ऋतवः संधयस्तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 19

त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते

त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 20

भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि

प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 21

यत्किंचिदिह वै लोके सर्वमेष्वेव तत्त्रिषु

त्रयो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु

सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 22

तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः

प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 23

अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम्

सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्

ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः

Mahabharata

Ashvamedhika Parva, Adhyaya 39, Verse 24

अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः

विमुक्तदेहः प्रविभागतत्त्ववि;त्स मुच्यते सर्वगुणैर्निरामयः