Ashvamedhika Parva, Adhyaya 38, Verse 1
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः
एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते
निर्ममो निरहंकारो निराशीः सर्वतः समः
अकामहत इत्येष सतां धर्मः सनातनः
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम्
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तता
शान्तिकर्म विशुद्धिश्च शुभा बुद्धिर्विमोचनम्
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः
निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता
मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम्
मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रयाः
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः
दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते
विकुर्वते महात्मानो देवास्त्रिदिवगा इव
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः
विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च
इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः
एतद्विज्ञाय विधिवल्लभते यद्यदिच्छति
प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावदुक्तं गुणवृत्तमेव च
नरस्तु यो वेद गुणानिमान्सदा; गुणान्स भुङ्क्ते न गुणैः स भुज्यते