Mahabharata

Ashvamedhika Parva, Adhyaya 37

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 1

रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः

निबोधत महाभागा गुणवृत्तं च सर्वशः

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 2

संघातो रूपमायासः सुखदुःखे हिमातपौ

ऐश्वर्यं विग्रहः संधिर्हेतुवादोऽरतिः क्षमा

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 3

बलं शौर्यं मदो रोषो व्यायामकलहावपि

ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 4

वधबन्धपरिक्लेशाः क्रयो विक्रय एव च

निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 5

उग्रं दारुणमाक्रोशः परवित्तानुशासनम्

लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 6

मृषावादो मृषादानं विकल्पः परिभाषणम्

निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 7

परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः

व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 8

संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक्

नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 9

संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये

प्रदानमाशीर्युक्तं च सततं मे भवत्विति

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 10

स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया

याजनाध्यापने चोभे तथैवाहुः परिग्रहम्

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 11

इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः

अभिद्रोहस्तथा माया निकृतिर्मान एव च

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 12

स्तैन्यं हिंसा परीवादः परितापः प्रजागरः

स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 13

द्यूतं च जनवादश्च संबन्धाः स्त्रीकृताश्च ये

नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन

सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 14

भूतभव्यभविष्याणां भावानां भुवि भावनाः

त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 15

कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः

अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 16

अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः

प्रेत्यभाविकमीहन्त इह लौकिकमेव च

ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति

Mahabharata

Ashvamedhika Parva, Adhyaya 37, Verse 17

रजोगुणा वो बहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च

नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते