Mahabharata

Ashvamedhika Parva, Adhyaya 36

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 1

तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्

नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 2

एकादशपरिक्षेपं मनो व्याकरणात्मकम्

बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 3

त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः

प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 4

तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते

अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 5

अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः

अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 6

तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः

रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 7

नियम्यते तमो यत्र रजस्तत्र प्रवर्तते

नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 8

नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम्

अधर्मलक्षणं चैव नियतं पापकर्मसु

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 9

प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम्

प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 10

प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता

सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 11

एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः

समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 12

संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः

स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 13

अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता

निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 14

अकृते कृतमानित्वमज्ञाने ज्ञानमानिता

अमैत्री विकृतो भावो अश्रद्धा मूढभावना

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 15

अनार्जवमसंज्ञत्वं कर्म पापमचेतना

गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 16

सर्व एते गुणा विप्रास्तामसाः संप्रकीर्तिताः

ये चान्ये नियता भावा लोकेऽस्मिन्मोहसंज्ञिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 17

तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः

परिवादकथा नित्यं देवब्राह्मणवैदिकाः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 18

अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा

मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 19

वृथारम्भाश्च ये केचिद्वृथादानानि यानि च

वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 20

अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता

अश्रद्दधानता चैव तामसं वृत्तमिष्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 21

एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः

मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 22

तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम्

अवाङ्निरयभावाय तिर्यङ्निरयगामिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 23

स्थावराणि च भूतानि पशवो वाहनानि च

क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 24

अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः

उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 25

मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः

अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 26

तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम्

यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 27

अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु

स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम्

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 28

संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम्

स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 29

अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु

पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः

Mahabharata

Ashvamedhika Parva, Adhyaya 36, Verse 30

पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः

वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम्