Ashvamedhika Parva, Adhyaya 36, Verse 1
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम्
एकादशपरिक्षेपं मनो व्याकरणात्मकम्
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत्
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः
प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते
अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः
अन्योन्यापाश्रयाश्चैव तथान्योन्यानुवर्तिनः
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः
रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते
नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसंज्ञितम्
अधर्मलक्षणं चैव नियतं पापकर्मसु
प्रवृत्त्यात्मकमेवाहू रजः पर्यायकारकम्
प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम्
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता
सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम्
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः
समासव्यासयुक्तानि तत्त्वतस्तानि वित्त मे
संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः
स्वप्नः स्तम्भो भयं लोभः शोकः सुकृतदूषणम्
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता
अमैत्री विकृतो भावो अश्रद्धा मूढभावना
अनार्जवमसंज्ञत्वं कर्म पापमचेतना
गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः
सर्व एते गुणा विप्रास्तामसाः संप्रकीर्तिताः
ये चान्ये नियता भावा लोकेऽस्मिन्मोहसंज्ञिताः
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः
परिवादकथा नित्यं देवब्राह्मणवैदिकाः
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता
अश्रद्दधानता चैव तामसं वृत्तमिष्यते
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः
मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः
तेषां योनिं प्रवक्ष्यामि नियतां पापकर्मणाम्
अवाङ्निरयभावाय तिर्यङ्निरयगामिनः
स्थावराणि च भूतानि पशवो वाहनानि च
क्रव्यादा दन्दशूकाश्च कृमिकीटविहंगमाः
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम्
यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम्
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम्
स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम्