Mahabharata

Ashvamedhika Parva, Adhyaya 34

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 1

नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना

बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 2

उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः

तन्मन्ये कारणतमं यत एषा प्रवर्तते

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 3

अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः

तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 4

यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति संज्ञितम्

ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 5

अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते

उपायमेव वक्ष्यामि येन गृह्येत वा न वा

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 6

सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते

कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 7

इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते

पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 8

यावन्त इह शक्येरंस्तावतोंऽशान्प्रकल्पयेत्

व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 9

सर्वान्नानात्वयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान्

यतः परं न विद्येत ततोऽभ्यासे भविष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 10

ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये

क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 11

क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः

याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत

Mahabharata

Ashvamedhika Parva, Adhyaya 34, Verse 12

मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्

क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय