Ashvamedhika Parva, Adhyaya 33, Verse 1
नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि
नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे
मया व्याप्तमिदं सर्वं यत्किंचिज्जगतीगतम्
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह
तेषां मामन्तकं विद्धि दारूणामिव पावकम्
राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका
ते भावमेकमायान्ति सरितः सागरं यथा
बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्
तस्मात्ते सुभगे नास्ति परलोककृतं भयम्
मद्भावभावनिरता ममैवात्मानमेष्यसि