Mahabharata

Ashvamedhika Parva, Adhyaya 33

Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 1

नाहं तथा भीरु चरामि लोके; तथा त्वं मां तर्कयसे स्वबुद्ध्या

विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि; गृहस्थधर्मा ब्रह्मचारी तथास्मि

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 2

नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे

मया व्याप्तमिदं सर्वं यत्किंचिज्जगतीगतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 3

ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह

तेषां मामन्तकं विद्धि दारूणामिव पावकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 4

राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे

तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 5

एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः

गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु

लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 6

नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका

ते भावमेकमायान्ति सरितः सागरं यथा

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 7

बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते

आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 33, Verse 8

तस्मात्ते सुभगे नास्ति परलोककृतं भयम्

मद्भावभावनिरता ममैवात्मानमेष्यसि