Mahabharata

Ashvamedhika Parva, Adhyaya 32

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

ब्राह्मणस्य च संवादं जनकस्य च भामिनि

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 2

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे

विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 3

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्

आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 4

सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो

वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 5

इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना

मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 6

तमासीनं ध्यायमानं राजानममितौजसम्

कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 7

समाश्वास्य ततो राजा व्यपेते कश्मले तदा

ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 8

पितृपैतामहे राज्ये वश्ये जनपदे सति

विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम्

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 9

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया

नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 10

नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत्

ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 11

तया न विषयं मन्ये सर्वो वा विषयो मम

आत्मापि चायं न मम सर्वा वा पृथिवी मम

उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 12

पितृपैतामहे राज्ये वश्ये जनपदे सति

ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 13

कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव

नावैषि विषयं येन सर्वो वा विषयस्तव

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 14

अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु

नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 15

कस्येदमिति कस्य स्वमिति वेदवचस्तथा

नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 16

एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया

शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 17

नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि

तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 18

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः

आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 19

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा

तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 20

नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये

तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 21

नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि

तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 22

नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे

मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 23

देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह

इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 24

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्

त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 32, Verse 25

त्वमस्य ब्रह्मनाभस्य बुद्ध्यारस्यानिवर्तिनः

सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः