Mahabharata

Ashvamedhika Parva, Adhyaya 31

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 1

त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः

हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 2

शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः

स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 3

एतान्निकृत्य धृतिमान्बाणसंघैरतन्द्रितः

जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 4

अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः

अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 5

समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु

जग्राह तरसा राज्यमम्बरीष इति श्रुतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 6

स निगृह्य महादोषान्साधून्समभिपूज्य च

जगाम महतीं सिद्धिं गाथां चेमां जगाद ह

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 7

भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः

एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 8

येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति

तृष्णार्त इव निम्नानि धावमानो न बुध्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 9

अकार्यमपि येनेह प्रयुक्तः सेवते नरः

तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 10

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते

स लिप्समानो लभते भूयिष्ठं राजसान्गुणान्

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 11

स तैर्गुणैः संहतदेहबन्धनः; पुनः पुनर्जायति कर्म चेहते

जन्मक्षये भिन्नविकीर्णदेहः; पुनर्मृत्युं गच्छति जन्मनि स्वे

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 12

तस्मादेनं सम्यगवेक्ष्य लोभं; निगृह्य धृत्यात्मनि राज्यमिच्छेत्

एतद्राज्यं नान्यदस्तीति विद्या;द्यस्त्वत्र राजा विजितो ममैकः

Mahabharata

Ashvamedhika Parva, Adhyaya 31, Verse 13

इति राज्ञाम्बरीषेण गाथा गीता यशस्विना

आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता