Ashvamedhika Parva, Adhyaya 30, Verse 1
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम
अलर्को नाम राजर्षिरभवत्सुमहातपाः
धर्मज्ञः सत्यसंधश्च महात्मा सुमहाव्रतः
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम्
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान्
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्
नेमे बाणास्तरिष्यन्ति मामलर्क कथंचन
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम्
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु
सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान्
योगेनात्मानमाविश्य संसिद्धिं परमां ययौ
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम्
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्
इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे