Mahabharata

Ashvamedhika Parva, Adhyaya 28

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 1

गन्धान्न जिघ्रामि रसान्न वेद्मि; रूपं न पश्यामि न च स्पृशामि

न चापि शब्दान्विविधाञ्शृणोमि; न चापि संकल्पमुपैमि किंचित्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 2

अर्थानिष्टान्कामयते स्वभावः; सर्वान्द्वेष्यान्प्रद्विषते स्वभावः

कामद्वेषावुद्भवतः स्वभावा;त्प्राणापानौ जन्तुदेहान्निवेश्य

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 3

तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावा;न्भूतात्मानं लक्षयेयं शरीरे

तस्मिंस्तिष्ठन्नास्मि शक्यः कथंचि;त्कामक्रोधाभ्यां जरया मृत्युना च

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 4

अकामयानस्य च सर्वकामा;नविद्विषाणस्य च सर्वदोषान्

न मे स्वभावेषु भवन्ति लेपा;स्तोयस्य बिन्दोरिव पुष्करेषु

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 5

नित्यस्य चैतस्य भवन्ति नित्या; निरीक्षमाणस्य बहून्स्वभावान्

न सज्जते कर्मसु भोगजालं; दिवीव सूर्यस्य मयूखजालम्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 6

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

अध्वर्युयतिसंवादं तं निबोध यशस्विनि

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 7

प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्

यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 8

तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति

श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 9

यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति

यदस्य वारिजं किंचिदपस्तत्प्रतिपद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 10

सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च

आगमे वर्तमानस्य न मे दोषोऽस्ति कश्चन

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 11

प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि

छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 12

अनु त्वा मन्यतां माता पिता भ्राता सखापि च

मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 13

य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति

तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 14

प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु

शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 15

इन्धनस्य तु तुल्येन शरीरेण विचेतसा

हिंसा निर्वेष्टुकामानामिन्धनं पशुसंज्ञितम्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 16

अहिंसा सर्वधर्माणामिति वृद्धानुशासनम्

यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 17

अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्

शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 18

अहिंसा सर्वभूतानां नित्यमस्मासु रोचते

प्रत्यक्षतः साधयामो न परोक्षमुपास्महे

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 19

भूमेर्गन्धगुणान्भुङ्क्षे पिबस्यापोमयान्रसान्

ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 20

शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम्

सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 21

प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान्

नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 22

अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः

अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 23

प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह

भावैरेतैर्विमुक्तस्य निर्द्वंद्वस्य निराशिषः

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 24

समस्य सर्वभूतेषु निर्ममस्य जितात्मनः

समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित्

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 25

सद्भिरेवेह संवासः कार्यो मतिमतां वर

भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 26

भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम्

मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 27

उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्

अध्वर्युरपि निर्मोहः प्रचचार महामखे

Mahabharata

Ashvamedhika Parva, Adhyaya 28, Verse 28

एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः

विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना