Ashvamedhika Parva, Adhyaya 27, Verse 1
संकल्पदंशमशकं शोकहर्षहिमातपम्
मोहान्धकारतिमिरं लोभव्यालसरीसृपम्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
संकल्पदंशमशकं शोकहर्षहिमातपम्
मोहान्धकारतिमिरं लोभव्यालसरीसृपम्
विषयैकात्ययाध्वानं कामक्रोधविरोधकम्
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम्
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः
गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम्
न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम्
न तदस्त्यपृथग्भावे किंचिद्दूरतरं ततः
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम्
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम्
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः
न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न
तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त
सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम्
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः
एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्
प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम्
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते
सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः
ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्
गिरयः पर्वताश्चैव सन्ति तत्र समासतः
नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम्
नदीनां संगमस्तत्र वैतानः समुपह्वरे
स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम्
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः
तदरण्यमभिप्रेत्य यथाधीरमजायत
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम्