Ashvamedhika Parva, Adhyaya 26, Verse 1
एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
एकः शास्ता न द्वितीयोऽस्ति शास्ता; यथा नियुक्तोऽस्मि तथा चरामि
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता; तेनैव युक्तः प्रवणादिवोदकम्
एको गुरुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा गुरुणा सदैव; पराभूता दानवाः सर्व एव
एको बन्धुर्नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा बान्धवा बन्धुमन्तः; सप्तर्षयः सप्त दिवि प्रभान्ति
एकः श्रोता नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तस्मिन्गुरौ गुरुवासं निरुष्य; शक्रो गतः सर्वलोकामरत्वम्
एको द्वेष्टा नास्ति ततो द्वितीयो; यो हृच्छयस्तमहमनुब्रवीमि
तेनानुशिष्टा गुरुणा सदैव; लोकद्विष्टाः पन्नगाः सर्व एव
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रजापतौ पन्नगानां देवर्षीणां च संविदम्
देवर्षयश्च नागाश्च असुराश्च प्रजापतिम्
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम्
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः
तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः
दानं देवा व्यवसिता दममेव महर्षयः
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते
गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः
पापेन विचरँल्लोके पापचारी भवत्ययम्
शुभेन विचरँल्लोके शुभचारी भवत्युत
कामचारी तु कामेन य इन्द्रियसुखे रतः
व्रतचारी सदैवैष य इन्द्रियजये रतः
अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः
एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः