Mahabharata

Ashvamedhika Parva, Adhyaya 25

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

चातुर्होत्रविधानस्य विधानमिह यादृशम्

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 2

तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते

शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम्

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 3

करणं कर्म कर्ता च मोक्ष इत्येव भामिनि

चत्वार एते होतारो यैरिदं जगदावृतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 4

होतॄणां साधनं चैव शृणु सर्वमशेषतः

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्

मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 5

गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः

मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 6

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः

मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 7

स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम्

अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 8

विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि

गुणास्ते देवताभूताः सततं भुञ्जते हविः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 9

अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते

आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 10

अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम्

स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 11

अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः

स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 12

मनसा गम्यते यच्च यच्च वाचा निरुद्यते

श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 13

स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्

मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 14

गुणवत्पावको मह्यं दीप्यते हव्यवाहनः

योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः

प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 15

कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः

कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 16

ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः

नारायणाय देवाय यदबध्नन्पशून्पुरा

Mahabharata

Ashvamedhika Parva, Adhyaya 25, Verse 17

तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम्

देवं नारायणं भीरु सर्वात्मानं निबोध मे