Ashvamedhika Parva, Adhyaya 24, Verse 1
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादमृषेर्देवमतस्य च
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादमृषेर्देवमतस्य च
जन्तोः संजायमानस्य किं नु पूर्वं प्रवर्तते
प्राणोऽपानः समानो वा व्यानो वोदान एव च
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम्
प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत्
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम्
प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात्
संकल्पाज्जायते हर्षः शब्दादपि च जायते
रसात्संजायते चापि रूपादपि च जायते
स्पर्शात्संजायते चापि गन्धादपि च जायते
एतद्रूपमुदानस्य हर्षो मिथुनसंभवः
कामात्संजायते शुक्रं कामात्संजायते रसः
समानव्यानजनिते सामान्ये शुक्रशोणिते
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते
प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः
व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम्
संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम्
तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः
सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः
आघारौ समानो व्यानश्च इति यज्ञविदो विदुः
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
निर्द्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु
अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत्
तृतीयं तु समानेन पुनरेव व्यवस्यते
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम्
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः