Mahabharata

Ashvamedhika Parva, Adhyaya 23

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

सुभगे पञ्चहोतॄणां विधानमिह यादृशम्

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 2

प्राणापानावुदानश्च समानो व्यान एव च

पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 3

स्वभावात्सप्त होतार इति ते पूर्विका मतिः

यथा वै पञ्च होतारः परो भावस्तथोच्यताम्

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 4

प्राणेन संभृतो वायुरपानो जायते ततः

अपाने संभृतो वायुस्ततो व्यानः प्रवर्तते

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 5

व्यानेन संभृतो वायुस्ततोदानः प्रवर्तते

उदाने संभृतो वायुः समानः संप्रवर्तते

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 6

तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम्

यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 7

यस्मिन्प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे

यस्मिन्प्रचीर्णे च पुनश्चरन्ति; स वै श्रेष्ठो गच्छत यत्र कामः

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 8

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 9

प्राणः प्रलीयत ततः पुनश्च प्रचचार ह

समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 10

न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्

न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव

प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 11

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 12

व्यानश्च तमुदानश्च भाषमाणमथोचतुः

अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 13

अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्

श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 14

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 15

प्रालीयत ततो व्यानः पुनश्च प्रचचार ह

प्राणापानावुदानश्च समानश्च तमब्रुवन्

न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 16

प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्

श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 17

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 18

ततः समानः प्रालिल्ये पुनश्च प्रचचार ह

प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन्

समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 19

समानः प्रचचाराथ उदानस्तमुवाच ह

श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 20

मयि प्रलीने प्रलयं व्रजन्ति; सर्वे प्राणाः प्राणभृतां शरीरे

मयि प्रचीर्णे च पुनश्चरन्ति; श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 21

ततः प्रालीयतोदानः पुनश्च प्रचचार ह

प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्

उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 22

ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः

सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः

सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 23

एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः

एक एव ममैवात्मा बहुधाप्युपचीयते

Mahabharata

Ashvamedhika Parva, Adhyaya 23, Verse 24

परस्परस्य सुहृदो भावयन्तः परस्परम्

स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम्