Mahabharata

Ashvamedhika Parva, Adhyaya 22

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

सुभगे सप्तहोतॄणां विधानमिह यादृशम्

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 2

घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम्

मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 3

सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम्

एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 4

सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः

कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 5

गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता

परस्परगुणानेते न विजानन्ति कर्हिचित्

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 6

जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च

न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 7

घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च

न रसानधिगच्छन्ति जिह्वा तानधिगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 8

घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च

न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 9

घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा

न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 10

घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च

न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 11

घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च

संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 12

घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं मन एव च

न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 13

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

इन्द्रियाणां च संवादं मनसश्चैव भामिनि

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 14

न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते

रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 15

न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन

प्रवरं सर्वभूतानामहमस्मि सनातनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 16

अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः

इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 17

काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः

गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 18

एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान्

ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 19

यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम्

भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 20

अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च

यदि संकल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत्

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 21

अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा

घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 22

श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया

त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 23

बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम्

भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 24

यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति

ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 25

विषयानेवमस्माभिर्दर्शितानभिमन्यसे

अनागतानतीतांश्च स्वप्ने जागरणे तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 26

वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्

अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 27

बहूनपि हि संकल्पान्मत्वा स्वप्नानुपास्य च

बुभुक्षया पीड्यमानो विषयानेव धावसि

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 28

अगारमद्वारमिव प्रविश्य; संकल्पभोगो विषयानविन्दन्

प्राणक्षये शान्तिमुपैति नित्यं; दारुक्षयेऽग्निर्ज्वलितो यथैव

Mahabharata

Ashvamedhika Parva, Adhyaya 22, Verse 29

कामं तु नः स्वेषु गुणेषु सङ्गः; कामं च नान्योन्यगुणोपलब्धिः

अस्मानृते नास्ति तवोपलब्धि;स्त्वामप्यृतेऽस्मान्न भजेत हर्षः