Mahabharata

Ashvamedhika Parva, Adhyaya 21

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

निबोध दशहोतॄणां विधानमिह यादृशम्

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 2

सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते

रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 3

शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते

ततश्चाहवनीयस्तु तस्मिन्संक्षिप्यते हविः

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 4

ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते

रूपं भवति वै व्यक्तं तदनुद्रवते मनः

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 5

कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत्

मनसा चिन्तितं वाक्यं यदा समभिपद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 6

केन विज्ञानयोगेन मतिश्चित्तं समास्थिता

समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 7

तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम्

तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 8

प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि

तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 9

उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्

आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 10

मन इत्येव भगवांस्तदा प्राह सरस्वतीम्

अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 11

स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम

स्थावरं मत्सकाशे वै जङ्गमं विषये तव

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 12

यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा

तन्मनो जङ्गमं नाम तस्मादसि गरीयसी

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 13

यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने

तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 14

प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति

प्रेर्यमाणा महाभागे विना प्राणमपानती

प्रजापतिमुपाधावत्प्रसीद भगवन्निति

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 15

ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः

तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित्

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 16

घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते

तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 17

गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी

सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 18

दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते

एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 19

अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया

किं नु पूर्वं ततो देवी व्याजहार सरस्वती

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 20

प्राणेन या संभवते शरीरे; प्राणादपानं प्रतिपद्यते च

उदानभूता च विसृज्य देहं; व्यानेन सर्वं दिवमावृणोति

Mahabharata

Ashvamedhika Parva, Adhyaya 21, Verse 21

ततः समाने प्रतितिष्ठतीह; इत्येव पूर्वं प्रजजल्प चापि

तस्मान्मनः स्थावरत्वाद्विशिष्टं; तथा देवी जङ्गमत्वाद्विशिष्टा