Mahabharata

Ashvamedhika Parva, Adhyaya 20

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

दंपत्योः पार्थ संवादमभयं नाम नामतः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 2

ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम्

दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 3

कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता

न्यस्तकर्माणमासीनं कीनाशमविचक्षणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 4

भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम्

त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 5

एवमुक्तः स शान्तात्मा तामुवाच हसन्निव

सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 6

ग्राह्यं दृश्यं च श्राव्यं च यदिदं कर्म विद्यते

एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 7

मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः

नैष्कर्म्यं न च लोकेऽस्मिन्मौर्तमित्युपलभ्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 8

कर्मणा मनसा वाचा शुभं वा यदि वाशुभम्

जन्मादिमूर्तिभेदानां कर्म भूतेषु वर्तते

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 9

रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु

आत्मस्थमात्मना तेन दृष्टमायतनं मया

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 10

यत्र तद्ब्रह्म निर्द्वंद्वं यत्र सोमः सहाग्निना

व्यवायं कुरुते नित्यं धीरो भूतानि धारयन्

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 11

यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते

विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 12

घ्राणेन न तदाघ्रेयं न तदाद्यं च जिह्वया

स्पर्शेन च न तत्स्पृश्यं मनसा त्वेव गम्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 13

चक्षुषा न विषह्यं च यत्किंचिच्छ्रवणात्परम्

अगन्धमरसस्पर्शमरूपाशब्दमव्ययम्

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 14

यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति

प्राणोऽपानः समानश्च व्यानश्चोदान एव च

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 15

तत एव प्रवर्तन्ते तमेव प्रविशन्ति च

समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 16

तस्मिन्सुप्ते प्रलीयेते समानो व्यान एव च

अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति

तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 17

प्राणानायम्यते येन तमुदानं प्रचक्षते

तस्मात्तपो व्यवस्यन्ति तद्भवं ब्रह्मवादिनः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 18

तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम्

अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 19

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्

मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 20

घ्रेयं पेयं च दृश्यं च स्पृश्यं श्रव्यं तथैव च

मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 21

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः

मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 22

घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च

हवींष्यग्निषु होतारः सप्तधा सप्त सप्तसु

सम्यक्प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 23

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

मनो बुद्धिश्च सप्तैते योनिरित्येव शब्दिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 24

हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं मुखम्

अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु

तत्रैव च निरुध्यन्ते प्रलये भूतभावने

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 25

ततः संजायते गन्धस्ततः संजायते रसः

ततः संजायते रूपं ततः स्पर्शोऽभिजायते

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 26

ततः संजायते शब्दः संशयस्तत्र जायते

ततः संजायते निष्ठा जन्मैतत्सप्तधा विदुः

Mahabharata

Ashvamedhika Parva, Adhyaya 20, Verse 27

अनेनैव प्रकारेण प्रगृहीतं पुरातनैः

पूर्णाहुतिभिरापूर्णास्तेऽभिपूर्यन्ति तेजसा