Mahabharata

Ashvamedhika Parva, Adhyaya 17

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 1

ततस्तस्योपसंगृह्य पादौ प्रश्नान्सुदुर्वचान्

पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 2

कथं शरीरं च्यवते कथं चैवोपपद्यते

कथं कष्टाच्च संसारात्संसरन्परिमुच्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 3

आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति

शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 4

कथं शुभाशुभे चायं कर्मणी स्वकृते नरः

उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 5

एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत

आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 6

आयुःकीर्तिकराणीह यानि कर्माणि सेवते

शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 7

आयुःक्षयपरीतात्मा विपरीतानि सेवते

बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 8

सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा

अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान्

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 9

यदायमतिकष्टानि सर्वाण्युपनिषेवते

अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 10

दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च

गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 11

व्यायाममतिमात्रं वा व्यवायं चोपसेवते

सततं कर्मलोभाद्वा प्राप्तं वेगविधारणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 12

रसातियुक्तमन्नं वा दिवास्वप्नं निषेवते

अपक्वानागते काले स्वयं दोषान्प्रकोपयन्

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 13

स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्

अथ चोद्बन्धनादीनि परीतानि व्यवस्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 14

तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा

जीवितं प्रोच्यमानं तद्यथावदुपधारय

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 15

ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः

शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 16

अत्यर्थं बलवानूष्मा शरीरे परिकोपितः

भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 17

ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन्

शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु

वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 18

जातीमरणसंविग्नाः सततं सर्वजन्तवः

दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 19

गर्भसंक्रमणे चापि मर्मणामतिसर्पणे

तादृशीमेव लभते वेदनां मानवः पुनः

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 20

भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः

यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति

शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 21

यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः

स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम्

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 22

शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते

निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 23

ब्रह्मणा संपरित्यक्तो मृत इत्युच्यते नरः

स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत्

तैरेव न विजानाति प्राणमाहारसंभवम्

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 24

तत्रैव कुरुते काये यः स जीवः सनातनः

तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित्

तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 25

तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्

आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै

ततः स चेतनो जन्तुर्नाभिजानाति किंचन

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 26

तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु

स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 27

ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्

निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम्

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 28

स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः

अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 29

ब्राह्मणा ज्ञानसंपन्ना यथावच्छ्रुतनिश्चयाः

इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः

Mahabharata

Ashvamedhika Parva, Adhyaya 17, Verse 30

यथान्धकारे खद्योतं लीयमानं ततस्ततः

चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः