Mahabharata

Ashvamedhika Parva, Adhyaya 15

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 1

विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम

राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 2

विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते

राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 3

विजह्राते मुदा युक्तौ दिवि देवेश्वराविव

तौ वनेषु विचित्रेषु पर्वतानां च सानुषु

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 4

शैलेषु रमणीयेषु पल्वलेषु नदीषु च

चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 5

इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ

प्रविश्य तां सभां रम्यां विजह्राते च भारत

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 6

तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव

कथायोगे कथायोगे कथयामासतुस्तदा

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 7

ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा

प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 8

मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः

निश्चयज्ञः स पार्थाय कथयामास केशवः

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 9

पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः

कथाभिः शमयामास पार्थं शौरिर्जनार्दनः

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 10

स तमाश्वास्य विधिवद्विधानज्ञो महातपाः

अपहृत्यात्मनो भारं विशश्रामेव सात्वतः

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 11

ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह

सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 12

विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप

त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 13

असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः

भीमसेनप्रभावेन यमयोश्च नरोत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 14

धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्

धर्मेण निहतः संख्ये स च राजा सुयोधनः

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 15

अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः

धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 16

प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः

भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 17

रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव

किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 18

यत्र धर्मसुतो राजा यत्र भीमो महाबलः

यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 19

तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत

रमणीयेषु पुण्येषु सहितस्य त्वयानघ

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 20

कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः

बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान्

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 21

सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति

रोचतां गमनं मह्यं तवापि पुरुषर्षभ

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 22

उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः

स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 23

शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः

तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 24

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि

सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 25

तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन

अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 26

न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते

कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 27

सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया

ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 28

प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन

धार्तराष्ट्रो हतो राजा सबलः सपदानुगः

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 29

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः

स्थिता समुद्रवसना सशैलवनकानना

चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव

Mahabharata

Ashvamedhika Parva, Adhyaya 15, Verse 30

धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम्

उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः

स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ