Mahabharata

Ashvamedhika Parva, Adhyaya 14

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 1

एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः

समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 2

सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्

द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 3

नारदेनाथ भीमेन नकुलेन च पार्थिवः

कृष्णया सहदेवेन विजयेन च धीमता

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 4

अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः

व्यजहाच्छोकजं दुःखं संतापं चैव मानसम्

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 5

अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः

कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः

अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम्

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 6

प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्

व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 7

आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुंगवैः

न सूक्ष्ममपि मे किंचिद्व्यलीकमिह विद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 8

अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः

पुरस्कृत्येह भवतः समानेष्यामहे मखम्

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 9

हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह

बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 10

तथा भगवता चित्रं कल्याणं बहु भाषितम्

देवर्षिणा नारदेन देवस्थानेन चैव ह

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 11

नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून्

लभते व्यसनं प्राप्य सुहृदः साधुसंमतान्

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 12

एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः

अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ

पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 13

ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः

एवं नातिमहान्कालः स तेषामभ्यवर्तत

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 14

कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा

महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 15

भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन

सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम्

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 16

ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः

धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 14, Verse 17

स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्

अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह