Ashvamedhika Parva, Adhyaya 13, Verse 1
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम्
ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ
अदृश्यमानौ भूतानि योधयेतामसंशयम्
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते
लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम्
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति
अथ वा वसतः पार्थ वने वन्येन जीवतः
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते
बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत
यन्न पश्यति तद्भूतं मुच्यते स महाभयात्
कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः
दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि
व्रतं यज्ञान्नियमान्ध्यानयोगा;न्कामेन यो नारभते विदित्वा
यद्यद्ध्ययं कामयते स धर्मो; न यो धर्मो नियमस्तस्य मूलम्
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः
शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः
स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः
भावो भवामि तस्याहं स च मां नावबुध्यते
यो मां प्रयतते हन्तुं तपसा संशितव्रतः
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम्
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च
अवध्यः सर्वभूतानामहमेकः सनातनः
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः
धर्मं कुरु महाराज तत्र ते स भविष्यति
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः
मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः
न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः
लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि