Mahabharata

Ashvamedhika Parva, Adhyaya 13

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 1

न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत

शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 2

बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः

यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 3

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्

ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 4

ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ

अदृश्यमानौ भूतानि योधयेतामसंशयम्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 5

अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत

भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 6

लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम्

ममत्वं यस्य नैव स्यात्किं तया स करिष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 7

अथ वा वसतः पार्थ वने वन्येन जीवतः

ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 8

बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत

यन्न पश्यति तद्भूतं मुच्यते स महाभयात्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 9

कामात्मानं न प्रशंसन्ति लोके; न चाकामात्काचिदस्ति प्रवृत्तिः

दानं हि वेदाध्ययनं तपश्च; कामेन कर्माणि च वैदिकानि

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 10

व्रतं यज्ञान्नियमान्ध्यानयोगा;न्कामेन यो नारभते विदित्वा

यद्यद्ध्ययं कामयते स धर्मो; न यो धर्मो नियमस्तस्य मूलम्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 11

अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः

शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 12

नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्

यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्

तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 13

यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः

जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 14

यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः

स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 15

यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः

भावो भवामि तस्याहं स च मां नावबुध्यते

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 16

यो मां प्रयतते हन्तुं तपसा संशितव्रतः

ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम्

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 17

यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः

तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च

अवध्यः सर्वभूतानामहमेकः सनातनः

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 18

तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः

धर्मं कुरु महाराज तत्र ते स भविष्यति

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 19

यजस्व वाजिमेधेन विधिवद्दक्षिणावता

अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 20

मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः

न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे

Mahabharata

Ashvamedhika Parva, Adhyaya 13, Verse 21

स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः

लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि