Ashvamedhika Parva, Adhyaya 12, Verse 1
द्विविधो जायते व्याधिः शारीरो मानसस्तथा
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते
Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.
द्विविधो जायते व्याधिः शारीरो मानसस्तथा
परस्परं तयोर्जन्म निर्द्वंद्वं नोपलभ्यते
शरीरे जायते व्याधिः शारीरो नात्र संशयः
मानसो जायते व्याधिर्मनस्येवेति निश्चयः
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते
सत्त्वं रजस्तमश्चेति त्रयस्त्वात्मगुणाः स्मृताः
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम्
तेषामन्यतमोत्सेके विधानमुपदिश्यते
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा
स्मर्तुमिच्छसि कौन्तेय दिष्टं हि बलवत्तरम्
अथ वा ते स्वभावोऽयं येन पार्थावकृष्यसे
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्
मिषतां पाण्डवेयानां न तत्संस्मर्तुमिच्छसि
प्रव्राजनं च नगरादजिनैश्च विवासनम्
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि
पुनरज्ञातचर्यायां कीचकेन पदा वधः
याज्ञसेन्यास्तदा पार्थ न तस्य स्मर्तुमिच्छसि
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ
परमव्यक्तरूपस्य परं मुक्त्वा स्वकर्मभिः
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्