Ashvamedhika Parva, Adhyaya 11, Verse 1
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा
वासुदेवो महातेजास्ततो वचनमाददे
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्ते नृपतौ तस्मिन्व्यासेनाद्भुतकर्मणा
वासुदेवो महातेजास्ततो वचनमाददे
तं नृपं दीनमनसं निहतज्ञातिबान्धवम्
उपप्लुतमिवादित्यं सधूममिव पावकम्
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः
आश्वासयन्धर्मसुतं प्रवक्तुमुपचक्रमे
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति
नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः
कथं शत्रुं शरीरस्थमात्मानं नावबुध्यसे
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हृते
धराहरणदुर्गन्धो विषयः समपद्यत
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते
वृत्रस्य स ततः क्रुद्धो वज्रं घोरमवासृजत्
स वध्यमानो वज्रेण पृथिव्यां भूरितेजसा
विवेश सहसैवापो जग्राह विषयं ततः
व्याप्तास्वथाप्सु वृत्रेण रसे च विषये हृते
शतक्रतुरभिक्रुद्धस्तासु वज्रमवासृजत्
स वध्यमानो वज्रेण सलिले भूरितेजसा
विवेश सहसा ज्योतिर्जग्राह विषयं ततः
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण सुभृशं भूरितेजसा
विवेश सहसा वायुं जग्राह विषयं ततः
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
आकाशमभिदुद्राव जग्राह विषयं ततः
आकाशे वृत्रभूते च शब्दे च विषये हृते
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा
विवेश सहसा शक्रं जग्राह विषयं ततः
तस्य वृत्रगृहीतस्य मोहः समभवन्महान्
रथंतरेण तं तात वसिष्ठः प्रत्यबोधयत्
ततो वृत्रं शरीरस्थं जघान भरतर्षभ
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्
इदं धर्मरहस्यं च शक्रेणोक्तं महर्षिषु
ऋषिभिश्च मम प्रोक्तं तन्निबोध नराधिप