Ashvamedhika Parva, Adhyaya 10, Verse 1
एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किंचिदन्यद्गरीयः
आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किंचिदन्यद्गरीयः
आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम्
धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व
बृहस्पतिं त्वमुपशिक्षस्व राज;न्वज्रं वा ते प्रहरिष्यामि घोरम्
ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य
गन्धर्वं मां धृतराष्ट्रं निबोध; त्वामागतं वक्तुकामं नरेन्द्र
ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा
बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम्
वचश्चेदेतन्न करिष्यसे मे; प्राहैतदेतावदचिन्त्यकर्मा
त्वं चैवैतद्वेत्थ पुरंदरश्च; विश्वेदेवा वसवश्चाश्विनौ च
मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः
बृहस्पतिर्याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम्
संवर्तो मां याजयिताद्य राज;न्न ते वाक्यं तस्य वा रोचयामि
घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः
इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य
तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयामास कार्यम्
इममश्मानं प्लवमानमारा;दध्वा दूरं तेन न दृश्यतेऽद्य
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्मादभयं विप्रमुख्य
अयमायाति वै वज्री दिशो विद्योतयन्दश
अमानुषेण घोरेण सदस्यास्त्रासिता हि नः
भयं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भयमेतत्सुघोरम्
संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप
सर्वेषामेव देवानां क्षपितान्यायुधानि मे
दिशो वज्रं व्रजतां वायुरेतु; वर्षं भूत्वा निपततु काननेषु
आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस्त्वम्
अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा
वज्रं तथा स्थापयतां च वायु;र्महाघोरं प्लवमानं जलौघैः
घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन
आत्मा हि मे प्रव्यथते मुहुर्मुहु;र्न मे स्वास्थ्यं जायते चाद्य विप्र
वज्रादुग्राद्व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम्
भयं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधयामि
इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव
स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव
अयमिन्द्रो हरिभिरायाति राज;न्देवैः सर्वैः सहितः सोमपीथी
मन्त्राहूतो यज्ञमिमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम्
ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान्
आयाद्यज्ञमधि राज्ञः पिपासु;राविक्षितस्याप्रमेयस्य सोमम्
तमायान्तं सहितं देवसंघैः; प्रत्युद्ययौ सपुरोधा मरुत्तः
चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत्प्रीयमाणः
स्वागतं ते पुरुहूतेह विद्व;न्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र
शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतमुद्यतं मया
शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे
अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेरवरो जन्मना यः
जानामि ते गुरुमेनं तपोधनं; बृहस्पतेरनुजं तिग्मतेजसम्
यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः
यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वयं शाधि यज्ञे विधानम्
स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वयं सर्वलोकश्च देव
एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वयमेव देवान्
सभाः क्रियन्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः
कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम्
येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः
इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र
ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजयानो मरुत्तम्
एष त्वयाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः
सर्वाश्चान्या देवताः प्रीयमाणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन्
आग्नेयं वै लोहितमालभन्तां; वैश्वदेवं बहुरूपं विराजन्
नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः
ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयमन्नानि जह्रुः
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः