Ashvamedhika Parva, Adhyaya 9, Verse 1
कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते
कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते
कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति
सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे
तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति
कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य
आचक्ष्व मे तद्द्विज यावदेता;न्निहन्मि सर्वांस्तव दुःखकर्तॄन्
मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन
तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत
सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः
उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र
देवैः सह त्वमसुरान्संप्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान्
यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः
अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य
सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम्
एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते
अयं वै त्वा याजयिता बृहस्पति;स्तथामरं चैव करिष्यतीति
अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते
वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः
ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन्
कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन्
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम्
आसनं सलिलं पाद्यं गां चोपानय वै मुने
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम्
कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो
कच्चिद्देवाश्चास्य वशे यथाव;त्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव
शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः
देवाश्च सर्वे वशगास्तस्य राज;न्संदेशं त्वं शृणु मे देवराज्ञः
यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते
अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु
संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य
नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत्
ये वै लोका देवलोके महान्तः; संप्राप्स्यसे तान्देवराजप्रसादात्
त्वां चेदसौ याजयेद्वै बृहस्पति;र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः
तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः
ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र
मास्मानेवं त्वं पुनरागाः कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते
मा त्वां धक्ष्ये चक्षुषा दारुणेन; संक्रुद्धोऽहं पावक तन्निबोध
ततो देवानगमद्धूमकेतु;र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत्
तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम्
यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते
तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च
न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः
संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः
उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः
तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः
पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम्
पुनर्यद्युक्तो न करिष्यते वच;स्ततो वज्रं संप्रहर्तास्मि तस्मै
गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम्
संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः
यद्यागच्छेः पुनरेवं कथंचि;द्बृहस्पतिं परिदातुं मरुत्ते
दहेयं त्वां चक्षुषा दारुणेन; संक्रुद्ध इत्येतदवैहि शक्र
त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता
त्वत्संस्पर्शात्सर्वलोको बिभे;त्यश्रद्धेयं वदसे हव्यवाह
दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र
एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार
न चण्डिका जङ्गमा नो करेणु;र्न वारिसोमं प्रपिबामि वह्ने
न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः
प्रव्राजयेयं कालकेयान्पृथिव्या;मपाकर्षं दानवानन्तरिक्षात्
दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः