Ashvamedhika Parva, Adhyaya 8, Verse 1
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च
गुहासु शैलराजस्य यथाकामं यथासुखम्
उमासहायो भगवान्यत्र नित्यं महेश्वरः
आस्ते शूली महातेजा नानाभूतगणावृतः
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा
यमश्च वरुणश्चैव कुबेरश्च सहानुगः
भूतानि च पिशाचाश्च नासत्यावश्विनावपि
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः
उपासन्ते महात्मानं बहुरूपमुमापतिम्
रमते भगवांस्तत्र कुबेरानुचरैः सह
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः
न रूपं दृश्यते तस्य संस्थानं वा कथंचन
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर
धातवो जातरूपस्य रश्मयः सवितुर्यथा
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे
कपर्दिने करालाय हर्यक्ष्णे वरदाय च
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च
क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च
हरिकेशाय मुण्डाय कृशायोत्तारणाय च
भास्कराय सुतीर्थाय देवदेवाय रंहसे
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
गिरिशाय प्रशान्ताय यतये चीरवाससे
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च
मृगव्याधाय महते धन्विनेऽथ भवाय च
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्
पशूनां पतये चैव भूतानां पतये तथा
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च
स्रुवहस्ताय पतये धन्विने भार्गवाय च
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च
महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते
तथा शुक्राधिपतये पृथवे कृत्तिवाससे
कपालमालिने नित्यं सुवर्णमुकुटाय च
महादेवाय कृष्णाय त्र्यम्बकायानघाय च
क्रोधनाय नृशंसाय मृदवे बाहुशालिने
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे
सहस्रशिरसे चैव सहस्रचरणाय च
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे
पिनाकिनं महादेवं महायोगिनमव्ययम्
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम्
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्
प्रभवं सर्वभूतानां धारणं धरणीधरम्
ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम्
उमापतिं पशुपतिं विश्वरूपं महेश्वरम्
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम्
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम्
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम्
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्
शरण्यं शरणं याहि महादेवं चतुर्मुखम्