Ashvamedhika Parva, Adhyaya 7, Verse 1
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते
एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते
एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम
सत्यं ते ब्रुवतः सर्वे संपत्स्यन्ते मनोरथाः
मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा
सत्यमेतद्भवानाह स मां जानाति सत्रिणम्
कथयस्वैतदेकं मे क्व नु संप्रति नारदः
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्
श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा
एतावदहमप्येनं कुर्यामिति तदाब्रवीत्
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव
रूक्षया ब्राह्मणो राजन्पुनः पुनरथाब्रवीत्
वातप्रधानेन मया स्वचित्तवशवर्तिना
एवं विकृतरूपेण कथं याजितुमिच्छसि
भ्राता मम समर्थश्च वासवेन च सत्कृतः
वर्तते याजने चैव तेन कर्माणि कारय
गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्
याजयेयं कथंचिद्वै स हि पूज्यतमो मम
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि
बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु
न मां कामयते याज्यमसौ वासववारितः
अमरं याज्यमासाद्य मामृषे मा स्म मानुषम्
याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम्
स्पर्धते च मया विप्र सदा वै स हि पार्थिवः
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा
स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति
देवराजमुपाश्रित्य तद्विद्धि मुनिपुंगव
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम्
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम्
प्रत्याख्यातो हि तेनास्मि तथानपकृते सति
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम्
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव
याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ
द्विषेतां समभिक्रुद्धावेतदेकं समर्थय
स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम्
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः
तावल्लोकान्न लभेयं त्यजेयं संगतं यदि
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्
सम्यग्ज्ञाने वैषये वा त्यजेयं संगतं यदि
आविक्षित शुभा बुद्धिर्धीयतां तव कर्मसु
याजनं हि ममाप्येवं वर्तते त्वयि पार्थिव
संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम्
येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः
विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः
गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम्
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते