Mahabharata

Ashvamedhika Parva, Adhyaya 5

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 1

कथंवीर्यः समभवत्स राजा वदतां वरः

कथं च जातरूपेण समयुज्यत स द्विज

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 2

क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते

कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 3

असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः

अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम्

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 4

तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः

बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 5

तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम्

बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 6

स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत

अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत्

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 7

वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च

इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्

पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम्

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 8

याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः

वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च

शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 9

वाहनं यस्य योधाश्च द्रव्याणि विविधानि च

ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 10

स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः

संजीव्य कालमिष्टं च सशरीरो दिवं गतः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 11

बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्

अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम्

विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 12

तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्

पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 13

स्पर्धते सततं स स्म देवराजेन पार्थिवः

वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 14

शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः

यतमानोऽपि यं शक्रो न विशेषयति स्म ह

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 15

सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम्

उवाचेदं वचो देवैः सहितो हरिवाहनः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 16

बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन

दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम्

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 17

अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते

इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 18

कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्

याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 19

मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्

परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 20

एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः

मुहूर्तमिव संचिन्त्य देवराजानमब्रवीत्

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 21

त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः

नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 22

त्वमाजहर्थ देवानामेको वीर श्रियं पराम्

त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 23

पौरोहित्यं कथं कृत्वा तव देवगणेश्वर

याजयेयमहं मर्त्यं मरुत्तं पाकशासन

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 24

समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित्

ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 25

हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी

भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि

Mahabharata

Ashvamedhika Parva, Adhyaya 5, Verse 26

बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः

प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा